श्री कार्तवीर्यार्जुन द्वादश नाम स्तोत्रम् का पाठ
॥ स्मरणम् ॥
अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।
दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञदानतपोयोगैः श्रुतवीर्यदयादिभिः ॥
पञ्चाशीतिसहस्राणि ह्यव्याहतबलः समाः ।
अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥
॥ ध्यानम् ॥
सहस्रबाहुं महितं सशरं सचापं
रक्ताम्बरं विविध रक्तकिरीटभूषम् ।
चोरादिदुष्टभयनाशनमिष्टदं तं
ध्यायेन्महाबलविजृम्भितकार्तवीर्यम् ॥
॥ मन्त्रम् ॥
ओं कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।
तस्य संस्मरणादेव हृतं नष्टं च लभ्यते ॥
॥ द्वादशनामानि ॥
कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली ।
सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ १ ॥
रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः ।
द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ २ ॥
अनष्टद्रव्यता तस्य नष्टस्य पुनरागमः ।
सम्पदस्तस्य जायन्ते जनास्तस्य वशं गतः ।
आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम् ॥ ३ ॥
यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत् ।
यन्नामानि महावीर्यश्चार्जुनः कृतवीर्यवान् ॥ ४ ॥
हैहयाधिपतेः स्तोत्रं सहस्रावृत्तिकारितम् ।
वाञ्चितार्थप्रदं नॄणां स्वराज्यं सुकृतं यदि ॥ ५ ॥
॥ इति कार्तवीर्यार्जुन स्तोत्रम् सम्पूर्णम् ॥
स्रोत / लेखक: पारंपरिक · Claim credit
- #Kartaviryarjuna Stotram
- #Sahastrabahu
- #कार्तवीर्यार्जुन स्तोत्र
- #द्वादश नाम स्तोत्र
- #संस्कृत स्तोत्र
- #सहस्रबाहु
- #स्तोत्रम्