श्रीब्रह्मभैरव उवाच –

साधनानि च सर्वाणि श्रुतानि तव सुव्रत ।

इदानीं वद देवेश स्तोत्राणि कवचानि च ॥ १॥

श्रीशिव उवाच –

कथयामि तव स्नेहात् स्तोत्राणि कवचानि च ।

अन्नपूर्णाप्रीतिदानि सावधानोऽवधारय ॥ २॥

ह्रींकारं प्रथमं नमो भगवति स्वाहावसानां ध्रुवं,

मन्त्रं सप्तदशाक्षरं जपति ते माहेश्वरि प्रोक्षितम् ।

ध्यायेऽम्बे तरुणारुणं तव वपुर्नित्यान्नपूर्णे शिवे,

गेहे तस्य विराजते सरभसं दिव्यान्नराशिर्ध्रुवम् ॥ ३॥

ह्रींकारमुर्तिं कमनीयवक्त्रां चन्द्राङ्करेखान्वितभालभागाम् ।

ईशान्कान्तां प्रणमामि नित्यां लक्ष्मीविलासास्पदपादपीठाम् ॥ ४॥

नमोऽस्तु तुभ्यं गिरिराजकन्ये नमोऽस्तु कामान्तकवल्लभायै ।

नमोऽस्तु पङ्के रुहलोचनायै नमः शिवायै शशिभूषणायै ॥ ५॥

वामे करेऽमृतमयं कलशञ्च दक्षे, स्वर्णाङ्कितां ननु पल्लान्नमयीञ्च दर्वीम् ।

चित्रां सुवर्णवसनां गिरिशस्य कान्तां, सत्पद्मपत्रनयनां मनसाहमीडे ॥ ६॥

वामे माणिक्यपात्रं मधुरसभरितं बिभ्रतीं पाणिपद्मे,

दिव्यैरत्नैः प्रपूर्णां मणिमयवलये दक्षिणे रत्नदर्वीम् ।

रक्ताङ्गी पीनतुङ्गस्तनभरविलसंस्तारहारां त्रिनेत्रां,

वन्दे पूर्णेन्दुबिम्बप्रतिनिधिवदनामम्बिकामन्नपूर्णाम् ॥ ७॥

भगवति भवरोगात् पीडितं दुष्कृतोत्थात्,

सुतदुहितृकलत्रोपद्रवेणानुजातम् ।

विलसदमृतदृष्ट्या वीक्ष्य विभ्रान्तचित्तम्,

सकलभुवनमातस्त्राहि मामन्नपूर्णे ॥ ८॥

माहेश्वरीमाश्रितकल्पवल्लीमहं भवच्छेदकरीं भवानीम् ।

क्षुधार्तजायातनयाभ्युपेतस्त्वामन्नपूर्णां शरणं प्रपद्ये ॥ ९॥

दारिद्र्यदावानलदह्यमानं नमोऽन्नपूर्णे गिरिराजकन्ये ।

कृपाम्बुवर्षैरभिषिञ्च त्वं मां त्वत्पादपद्मार्पितचित्तवृत्तिम् ॥ १०॥

इत्यन्नपूर्णास्तवरत्नमेतच्छ्लोकाष्टकं यः पठतीह भक्त्या ।

तस्मै ददात्यन्नसमृद्धिराशिं श्रियञ्च विद्याञ्च परत्र मुक्तिम् ॥ ११॥

Author: Unknown Claim credit

Comments

संबंधित लेख

आगामी उपवास और त्यौहार

हरतालिका तीज

सोमवार, 14 सितम्बर 2026

हरतालिका तीज
गणेश चतुर्थी

सोमवार, 14 सितम्बर 2026

गणेश चतुर्थी
परिवर्तिनी एकादशी

मंगलवार, 22 सितम्बर 2026

परिवर्तिनी एकादशी
अनंत चतुर्दशी

शुक्रवार, 25 सितम्बर 2026

अनंत चतुर्दशी
भाद्रपद पूर्णिमा

शनिवार, 26 सितम्बर 2026

भाद्रपद पूर्णिमा
इंदिरा एकादशी

मंगलवार, 06 अक्टूबर 2026

इंदिरा एकादशी

संग्रह