चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्यसाधनम् ॥ १ ॥

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षांपठेन्नरः ॥ २ ॥

गंगाधरः शिरः पातु फालमर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥ ३ ॥

घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः । जिह्वां वागीश्वरः पातु कन्धरं शितिकन्धरः ॥ ४ ॥

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः । भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥ ५ ॥

हृदयं शंकरः पातु जठरं गिरिजापतिः । नाभिं मृत्युंजयः पातु कटिं व्याघ्राजिनाम्बरः ॥ ६ ॥

सक्थिनी पातु दीनार्तशरणागतवत्सलः । ऊरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७ ॥

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः । चरणौ करुणासिन्धुः सर्वांगानि सदाशिवः ॥ ८ ॥

एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् । स भुक्त्वा सकलान् कामान् शिवसायूज्यमाप्नुयात् ॥ ९ ॥

ग्रहभूतपिशाचाद्याः त्रैलोक्ये विचरन्ति ये । दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥ १० ॥

अभयङ्करनामेदं कवचं पार्वतीपतेः । भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥ ११ ॥

Author: Unknown Claim credit

Comments

संबंधित लेख

आगामी उपवास और त्यौहार

हरतालिका तीज

सोमवार, 14 सितम्बर 2026

हरतालिका तीज
गणेश चतुर्थी

सोमवार, 14 सितम्बर 2026

गणेश चतुर्थी
परिवर्तिनी एकादशी

मंगलवार, 22 सितम्बर 2026

परिवर्तिनी एकादशी
अनंत चतुर्दशी

शुक्रवार, 25 सितम्बर 2026

अनंत चतुर्दशी
भाद्रपद पूर्णिमा

शनिवार, 26 सितम्बर 2026

भाद्रपद पूर्णिमा
इंदिरा एकादशी

मंगलवार, 06 अक्टूबर 2026

इंदिरा एकादशी

संग्रह