ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् ।

निरुपितुमशक्तोsहमनुरुपमनीहकम् ॥ १ ॥

प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् ।

सर्वस्वरुपं सर्वेशं ज्ञानराशिस्वरुपिणम् ॥ २ ॥

अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरुपिणम् ।

वायुतुल्यातिनिर्लिप्तं चाक्षतं सर्वसाक्षिणम् ॥ ३ ॥

संसारार्णवपारे च मायापोते सुदुर्लभे ।

कर्णधारस्वरुपं च भक्तानुग्रहकारकम् ॥ ४ ॥

वरं वरेण्यं वरदं वरदानामपीश्र्वरम् ।

सिद्धं सिद्धिस्वरुपं च सिद्धिदं सिद्धिसाधनम् ॥ ५ ॥

ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम् ।

धर्मस्वरुपं धर्मज्ञं धर्माधर्मफलप्रदम् ॥ ६ ॥

बीजं संसारवृक्षाणामङकुरं च तदाश्रयम् ।

स्त्रीपुत्रपुंसकानां च रुपमेतदतीन्द्रियम् ॥ ७ ॥

सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् ।

स्वेच्छया सगुणं ब्रह्म निर्गुणं चापि स्वेच्छया ॥ ८ ॥

स्वयं प्रकृतिरुपं च प्राकृतं प्रकृतेः परम् ।

त्वां स्तोतुमक्षमोsनन्तः सहस्त्रवदनेन च ॥ ९ ॥

न क्षमः पञ्चवक्त्रश्र्च न क्षमश्र्चतुराननः ।

सरस्वती न शक्ता च न शक्तोsहं तव स्तुतौ ।

न शक्ताश्र्च चतुर्वेदाः के वा ते वेदवादिनः ॥ १० ॥

इत्येवं स्तवनं कृत्वा सुरेशं सुरसंसदि ।

सुरेशश्र्च सुरैः सार्द्धं विरराम रमापतिः ॥ ११ ॥

इदं विष्णुकृतं स्तोत्रं गणेशस्य च यः पठेत् ।

सायंप्रातश्र्च मध्याह्ने भक्तियुक्तः समाहितः ॥ १२ ॥

तद्विघ्ननिघ्नं कुरुते विघ्नेशः सततं मुने ।

वर्धते सर्वकल्याणं कल्याणजनकः सदा ॥ १३ ॥

यात्राकाले पठित्वा तु यो याति भक्तिपूर्वकम् ।

तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशयः ॥ १४ ॥

तेन दृष्टं च दुःस्वप्नं सुस्वप्नमुपजायते ।

कदापि न भवेत्तस्य ग्रहपीडा च दारुणा ॥ १५ ॥

भवेद् विनाशः शत्रूणां बन्धूनां च विवर्धनम् ।

शश्र्वदिघ्नविनाशश्र्च शश्र्वत् सम्पद्विवर्धनम् ॥ १६ ॥

स्थिरा भवेद् गृहे लक्ष्मीः पुत्रपौत्रविवर्धिनी ।

सर्वैश्र्वर्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत् ॥ १७ ॥

फलं चापि च तीर्थानां यज्ञानां यद् भवेद् ध्रुवम् ।

महतां सर्वदानानां श्रीगणेशप्रसादतः ॥ १८ ॥ ॥

Author: Unknown Claim credit

Comments

संबंधित लेख

आगामी उपवास और त्यौहार

पापमोचनी एकादशी

रविवार, 15 मार्च 2026

पापमोचनी एकादशी
चैत्र नवरात्रि

गुरूवार, 19 मार्च 2026

चैत्र नवरात्रि
गुड़ी पड़वा

गुरूवार, 19 मार्च 2026

गुड़ी पड़वा
उगादी

गुरूवार, 19 मार्च 2026

उगादी
चेटी चंड

शुक्रवार, 20 मार्च 2026

चेटी चंड
राम नवमी

गुरूवार, 26 मार्च 2026

राम नवमी

संग्रह