सरागलोकदुर्लभं विरागिलोकपूजितं,
सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् ।

गिरागुरुं श्रियाहरिं जयन्ति यत्पदार्चकाः,
नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥ १ ॥

गिरीन्द्रजामुखांबुज-प्रमोददान-भास्करं,
करीन्द्रवक्त्र-मानताघसंघ-वारणोद्यतम् ।

सरीसृपेश-बद्धकुक्षि-माश्रयामि संततं,
शरीरकान्ति-निर्जिताब्जबन्धु-बालसंततिम् ॥ २ ॥

शुकादिमौनिवन्दितं गकारवाच्यमक्षरं,
प्रकाममिष्टदायिनं सकामनम्रपंक्तये ।

चकासतं चतुर्भुजैः विकासपद्म पूजितं,
प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् ॥ ३ ॥

नराधिपत्वदायकं स्वरादिलोकदायकं,
ज्वरादिरोगवारकं निराकृतासुरव्रजम् ।

करांबुजोल्लसत्सृणिं विकारशून्यमानसैः,
हृदा सदा विभावितं मुदा नमामि विघ्नपम् ॥ ४ ॥

श्रमापनोदनक्षमं समाहितान्तरात्मनां,
सुमादिभिस्सदार्चितं क्षमानिधिं गणाधिपम् ।

रमाधवादिपूजितं यमान्तकात्मसंभवं,
शमादिषड्गुणप्रदं नमामि तं विभूतये ॥ ५ ॥

गणाधिपस्य पंचकं नृणामभीष्टदायकं,
प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः ।

भवन्ति ते विदांपुरः प्रगीतवैभवा जवात्,
चिरायुषोऽधिकश्रियस्सुसूनवो न संशयः ॥ ६ ॥

Author: Unknown Claim credit

Comments

संबंधित लेख

आगामी उपवास और त्यौहार

सफला एकादशी

सोमवार, 15 दिसम्बर 2025

सफला एकादशी
गुरु गोविंद सिंह जयंती

शनिवार, 27 दिसम्बर 2025

गुरु गोविंद सिंह जयंती
पौष पूर्णिमा

शनिवार, 03 जनवरी 2026

पौष पूर्णिमा
षटतिला एकादशी

बुधवार, 14 जनवरी 2026

षटतिला एकादशी
मकर संक्रांति

बुधवार, 14 जनवरी 2026

मकर संक्रांति
जया एकादशी

सोमवार, 26 जनवरी 2026

जया एकादशी

संग्रह