“ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके
ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः

पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम्

मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम्

देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम्
सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम्

श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम्
वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम्

बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम्
बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम्

ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम्
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम्

संसारसागरे घोरे पोतरुपां वरां भजे
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने
प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः

|| शंकर उवाच ||

रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके
हारिके विपदां राशेर्हर्षमङ्गलकारिके

हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके
शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके

मङ्गले मङ्गलार्हे च सर्व मङ्गलमङ्गले
सतां मन्गलदे देवि सर्वेषां मन्गलालये

पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते
पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम्

मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले
संसार मङ्गलाधारे मोक्षमङ्गलदायिनि

सारे च मङ्गलाधारे पारे च सर्वकर्मणाम्
प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे

स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम्
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः

देव्याश्च मङ्गलस्तोत्रं यः श्रुणोति समाहितः
तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम्

Author: Unknown Claim credit

Comments

संबंधित लेख

आगामी उपवास और त्यौहार

परिवर्तिनी एकादशी

मंगलवार, 22 सितम्बर 2026

परिवर्तिनी एकादशी
अनंत चतुर्दशी

शुक्रवार, 25 सितम्बर 2026

अनंत चतुर्दशी
भाद्रपद पूर्णिमा

शनिवार, 26 सितम्बर 2026

भाद्रपद पूर्णिमा
इंदिरा एकादशी

मंगलवार, 06 अक्टूबर 2026

इंदिरा एकादशी
घटस्थापना पूजा

रविवार, 11 अक्टूबर 2026

घटस्थापना पूजा
दशहरा

मंगलवार, 20 अक्टूबर 2026

दशहरा

संग्रह